मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९०, ऋक् ६

संहिता

ई॒शा॒नासो॒ ये दध॑ते॒ स्व॑र्णो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्हिर॑ण्यैः ।
इन्द्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ॥

पदपाठः

ई॒शा॒नासः॑ । ये । दध॑ते । स्वः॑ । नः॒ । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । हिर॑ण्यैः ।
इन्द्र॑वायू॒ इति॑ । सू॒रयः॑ । विश्व॑म् । आयुः॑ । अर्व॑त्ऽभिः । वी॒रैः । पृत॑नासु । स॒ह्युः॒ ॥

सायणभाष्यम्

हे इन्द्रवायू ईशानासः ईश्वराः प्रभवोयेजनाः नोस्मभ्यं गोभिरश्वेभिरश्वैर्वसुभिर्निवासकैः हिरण्यैश्च सहितं स्वः सुष्ठु अरणीयं सुखं दधते ददति प्रयच्छंति । यद्वा हिरण्यव्यतिरिक्तानि धनानि वसूनि तैर्हिरण्यैश्च सहेत्यर्थः । ते सूरयो दातारः विश्वं व्याप्तमायुरन्नं जीवनं वा शत्रूणां स्वभूतं पृतनासु संग्रामेषु अर्वद्भिरश्वैः वीरैः शूरभटैश्च साधनभूतैः सह्युः अभिभवेयुः यद्वा सहार्थे तृतीया अर्वद्भिः वीरैः पुत्रैश्च सहितं शत्रूणामायुरभिभवेयुरित्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२