मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९१, ऋक् २

संहिता

उ॒शन्ता॑ दू॒ता न दभा॑य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः ।
इन्द्र॑वायू सुष्टु॒तिर्वा॑मिया॒ना मा॑र्डी॒कमी॑ट्टे सुवि॒तं च॒ नव्य॑म् ॥

पदपाठः

उ॒शन्ता॑ । दू॒ता । न । दभा॑य । गो॒पा । मा॒सः । च॒ । पा॒थः । श॒रदः॑ । च॒ । पू॒र्वीः ।
इन्द्र॑वायू॒ इति॑ । सु॒ऽस्तु॒तिः । वा॒म् । इ॒या॒ना । मा॒र्डी॒कम् । ई॒ट्टे॒ । सु॒वि॒तम् । च॒ । नव्य॑म् ॥

सायणभाष्यम्

हे इन्द्रवायु उशन्ता उशन्तौ कामयमानौ दूता दूतौ देवतेर्गतिकर्मणो दूतशब्दः गन्तारौ गोपा गोपायितारौ ईदृशौ युवां दभाय हिंसायै नाभवतम् अपितु मासो मासांश्च पूर्वीर्बह्वीः शरदः संवत्सरांश्च चिरकालमस्मान्पाथो रक्षतम् । अपिच हे इन्द्रवायू सुष्टुतिरस्मदीया शोभना स्तुतिः वां युवां इयाना गच्छन्ती प्राप्नुवन्तो मार्डीकं सुखं ईदृए याचते । यद्वा सुखं यथा भवति तथा युवामीदृए स्तौति । तथा नव्यं प्रशस्यं सुवितं सुष्ठुप्राप्यं धनञ्च ईदृए ॥ २ ॥ नियुत्वद्वायुदेवताके पशौ पीवोअन्नानिति वपायायाज्या सूत्रितञ्च-पीवोअन्नाँरयिवृधः सुमेधा रायेनुयंजज्ञतूरोदसीमेइति । तथा द्वितीये छन्दोमे प्रउगशस्त्रे वायव्यतृचस्य एषैव द्वितीया सूत्रितञ्च-पीवोअन्नाँरयिवृधःसुमेधा उच्छन्नुषसः सुदिनाअरिप्राइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३