मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९१, ऋक् ४

संहिता

याव॒त्तर॑स्त॒न्वो॒३॒॑ याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या॑नाः ।
शुचिं॒ सोमं॑ शुचिपा पातम॒स्मे इन्द्र॑वायू॒ सद॑तं ब॒र्हिरेदम् ॥

पदपाठः

याव॑त् । तरः॑ । त॒न्वः॑ । याव॑त् । ओजः॑ । याव॑त् । नरः॑ । चक्ष॑सा । दीध्या॑नाः ।
शुचि॑म् । सोम॑म् । शु॒चि॒ऽपा॒ । पा॒त॒म् । अ॒स्मे इति॑ । इन्द्र॑वायू॒ इति॑ । सद॑तम् । ब॒र्हिः । आ । इ॒दम् ॥

सायणभाष्यम्

हे इन्द्रवायू युवयोस्तन्वः शरीरस्य तरो वेगो यावदस्ति यावच्च ओजो बलं यावच्च नरः कर्मणां नेतार ऋत्विजः चक्षसा ज्ञानेन दीध्यानाः दीप्यमानाः भवन्ति तस्य सर्वस्यानुरूपं शुचिपा शुचेः सोमस्य पाताराविन्द्रवायू शुचिंशुद्धं सोमं अस्मे अस्मदीयं पातं पिबतम् । इदं वेद्यां स्तीर्णं बर्हिश्च आसदतं पानार्थमासीदतं बर्हिषि उपविशतमित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३