मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९१, ऋक् ५

संहिता

नि॒यु॒वा॒ना नि॒युतः॑ स्पा॒र्हवी॑रा॒ इन्द्र॑वायू स॒रथं॑ यातम॒र्वाक् ।
इ॒दं हि वां॒ प्रभृ॑तं॒ मध्वो॒ अग्र॒मध॑ प्रीणा॒ना वि मु॑मुक्तम॒स्मे ॥

पदपाठः

नि॒ऽयु॒वा॒ना । नि॒ऽयुतः॑ । स्पा॒र्हऽवी॑राः । इन्द्र॑वायू॒ इति॑ । स॒ऽरथ॑म् । या॒त॒म् । अ॒र्वाक् ।
इ॒दम् । हि । वा॒म् । प्रऽभृ॑तम् । मध्वः॑ । अग्र॑म् । अध॑ । प्री॒णा॒ना । वि । मु॒मु॒क्त॒म् । अ॒स्मे इति॑ ॥

सायणभाष्यम्

हे इन्द्रवायू स्पार्हवीराः स्पृहणीयस्तोतृकान् नियतआत्मीयानश्वान् सरथं उभयोः समानमेकं रथं नियुवाना निमिश्रयन्तौ युवां अर्वा- गस्मदभिमुखे यातम् गच्छतम् । इदं हि इदं खलु मध्वो मधुरस्य सोमस्य अग्रं ग्रहेष्वाद्यमैन्द्रवायवाख्यं ग्रहं वां युवयोरर्थं प्रभृतं प्रकर्षेण हृतं होमार्थमुत्तरवेदिं प्रतिनीतम् अध अथ तादृशस्य सोमस्य पानानन्तरं प्रीणाना प्रीयमाणौ युवां अस्मे अस्मान् विमुमुक्तं पापाद्विमोचयतम् ॥ ५ ॥ प्रथमे छन्दोमे प्रउगशस्त्रे ऎन्द्रवायवतृचस्य यावांशतमिति तृतीया सूत्रितंच-यावांशतंनियुतोयाः सहस्रमित्येकपातिन्यइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३