मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९१, ऋक् ६

संहिता

या वां॑ श॒तं नि॒युतो॒ याः स॒हस्र॒मिन्द्र॑वायू वि॒श्ववा॑रा॒ः सच॑न्ते ।
आभि॑र्यातं सुवि॒दत्रा॑भिर॒र्वाक्पा॒तं न॑रा॒ प्रति॑भृतस्य॒ मध्व॑ः ॥

पदपाठः

याः । वा॒म् । श॒तम् । नि॒ऽयुतः॑ । याः । स॒हस्र॑म् । इन्द्र॑वायू॒ इति॑ । वि॒श्वऽवा॑राः । सच॑न्ते ।
आ । आ॒भिः॒ । या॒त॒म् । सु॒ऽवि॒दत्रा॑भिः । अ॒र्वाक् । पा॒तम् । न॒रा॒ । प्रति॑ऽभृतस्य । मध्वः॑ ॥

सायणभाष्यम्

हे इन्द्रवायू या नियुतः शतं शतसंख्याकाः सत्यः वां युवां सचन्ते सेवन्ते याश्च विश्ववारा विश्वैर्वरणीया नियुतः सहस्रं सहस्रसंख्याकाः सत्यः युवां सचन्ते सुविदत्राभिः शोभनधनप्रदाभिराभिर्नियुद्भिरर्वाक् अस्मदभिमुखं आयातमागच्छतम् हे नरा नेतारौ प्रतिभृतस्य उत्तरवेदिं प्रतिनीतस्य मध्वोमधुरस्य सोमस्य द्वितीयार्थे षष्ठी ईदृशं सोमं पातं पिबतम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३