मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९३, ऋक् ८

संहिता

ए॒ता अ॑ग्न आशुषा॒णास॑ इ॒ष्टीर्यु॒वोः सचा॒भ्य॑श्याम॒ वाजा॑न् ।
मेन्द्रो॑ नो॒ विष्णु॑र्म॒रुत॒ः परि॑ ख्यन्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

ए॒ताः । अ॒ग्ने॒ । आ॒शु॒षा॒णासः॑ । इ॒ष्टीः । यु॒वोः । सचा॑ । अ॒भि । अ॒श्या॒म॒ । वाजा॑न् ।
मा । इन्द्रः॑ । नः॒ । विष्णुः॑ । म॒रुतः॑ । परि॑ । ख्य॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे अग्ने उपलक्षणमेतत् हे इन्द्राग्नी एताः इष्टीः इमान्यज्ञान् आशुषाणासः आशु शीघ्रं संभजमानावयं युवोर्युवयोः स्वभूतान्वाजानन्नानि सचासह युगपदेव अभ्यश्याम अभिप्राप्नुयाम अपिच इन्द्रोविष्णुर्मरुतश्च नोस्मान् मापरिख्यन् अस्मान्परित्यज्यान्यान् माद्राक्षुः सर्वदा- स्मानेव पश्यन्तु । अन्यद्गतम् ॥ ८ ॥

इयंवामिति द्वादशर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षमैन्द्राग्नं द्वादशी अनुष्टुप् शिष्टागायत्र्यः तथाचानुक्रान्तम्-इयंवांद्वादशगायत्रमन्त्यानु- ष्टुबिति । ज्योतिष्टोमे प्रातःसवनेच्छावाकशस्त्रे आदितोनवर्चः शस्यन्ते सूत्र्यतेहि-इयंवामस्यमन्मनइति नवेति । आभिप्लविकेषूक्थ्येषु स्तोमेषु वृद्धावच्छावाकस्य प्रातःसवने इदंसूक्तमावापार्थम् उत्तमावर्जम् । सूत्रितश्च-इयंवामस्यमन्मनइत्येकादशेति । चातुर्विंशिकेहनि प्रातःसवने एतस्यैवाद्यस्तृचः सूत्रितंच-इयंवामस्यमन्मनइन्द्राग्नीयुवामिमइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६