मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९५, ऋक् २

संहिता

एका॑चेत॒त्सर॑स्वती न॒दीनां॒ शुचि॑र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् ।
रा॒यश्चेत॑न्ती॒ भुव॑नस्य॒ भूरे॑र्घृ॒तं पयो॑ दुदुहे॒ नाहु॑षाय ॥

पदपाठः

एका॑ । अ॒चे॒त॒त् । सर॑स्वती । न॒दीना॑म् । शुचिः॑ । य॒ती । गि॒रिऽभ्यः॑ । आ । स॒मु॒द्रात् ।
रा॒यः । चेत॑न्ती । भुव॑नस्य । भूरेः॑ । घृ॒तम् । पयः॑ । दु॒दु॒हे॒ । नाहु॑षाय ॥

सायणभाष्यम्

सहस्रवत्सरेण क्रतुना यक्ष्यमाणो नाहुषोनामराजा सरस्वतीं नदीं प्रार्थयामास साच तस्मै सहस्रसंवत्सरपर्याप्तं प्रयोघृतंच प्रददौ अयमर्थोत्र प्रतिपाद्यते-नदीनामन्यासां मध्ये शुचिः शुद्धा गिरिभ्यः सकाशात् आसमुद्रात् समुद्रपर्यन्तं यती गच्छन्ती एका सरस्वती नदी अचेतत् नाहुषस्य प्रार्थनामज्ञासीत् तथा भुवनस्य भूतजातस्यभूरेर्बहुलस्य रायोधनानि चेतन्ती प्रज्ञापयन्ती प्रयच्छन्ती नाहुषाय राज्ञे घृतं पयश्च सहस्रसंवत्सरक्रतोः पर्याप्तं दुदुहे दुग्धवती दत्तवती ॥ २ ॥ सरस्वद्देवताकेपशौ सवावृधइति पुरोडाशस्ययाज्या सूत्रितंच-सवावृधेनर्योयोषणासुयस्यव्रतंपशवोयन्तिसर्वइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९