मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९५, ऋक् ३

संहिता

स वा॑वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु॑र्वृष॒भो य॒ज्ञिया॑सु ।
स वा॒जिनं॑ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये॑ त॒न्वं॑ मामृजीत ॥

पदपाठः

सः । व॒वृ॒धे॒ । नर्यः॑ । योष॑णासु । वृषा॑ । शिशुः॑ । वृ॒ष॒भः । य॒ज्ञिया॑सु ।
सः । वा॒जिन॑म् । म॒घव॑त्ऽभ्यः । द॒धा॒ति॒ । वि । सा॒तये॑ । त॒न्व॑म् । म॒मृ॒जी॒त॒ ॥

सायणभाष्यम्

समध्यमस्थानोवायुः सरस्वान् नर्योनरेभ्योहितः योषणासु यतः वृषा सेचनसमर्थः शिशुः अल्पः प्रादुर्भावसमये अल्पतया दृश्यमानः वृषभोवर्षिता एवंभूतः सरस्वान् यज्ञियासु यज्ञार्हासु योषणासु योषित्सु आत्मनः कलत्रभूतासु मध्यमस्थानास्वप्सु मध्ये ववृधे वर्धते सतादृशः सरस्वान् मघवद्भो हविष्मद्भो यजमानेभ्यः वाजिनं बलिनं पुत्रं दधाति ददाति तथा सातये लाभार्थं तन्वं तेषां शरीरं विमामृजीत विमार्ष्टि लाभार्थं संस्करोतीत्यर्थः यद्यप्येषा सरस्वतः स्तुतिः तथापि सरस्वत्याः प्रीणनार्थं तत्स्तवनमिति छान्दोमिके सारस्वते तृचे अस्या उक्तोविनियोगोन विरुध्यते ॥ ३ ॥ दशरात्रेष्टमेहनि प्रउगे उतस्यानइति सारस्वतः सप्तमस्तृचः सूत्रितञ्च-उतस्यानःसरस्वतीजुषाणा सरस्वत्यभिनोनेषिवस्यइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९