मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९५, ऋक् ४

संहिता

उ॒त स्या न॒ः सर॑स्वती जुषा॒णोप॑ श्रवत्सु॒भगा॑ य॒ज्णे अ॒स्मिन् ।
मि॒तज्ञु॑भिर्नम॒स्यै॑रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ॥

पदपाठः

उ॒त । स्या । नः॒ । सर॑स्वती । जु॒षा॒णा । उप॑ । श्र॒व॒त् । सु॒ऽभगा॑ । य॒ज्ञे । अ॒स्मिन् ।
मि॒तज्ञु॑ऽभिः । न॒म॒स्यैः॑ । इ॒या॒ना । रा॒या । यु॒जा । चि॒त् । उत्ऽत॑रा । सखि॑ऽभ्यः ॥

सायणभाष्यम्

उतापिच जुषाणा प्रीयमाणा सुभगा शोभनधना स्या सा सरस्वती नोस्माकमस्मिन्यज्ञे उपश्रवत् अस्मदीयाः स्तुतीरुपश्रृणोतु । कीदृशी सा मितज्ञुभिः प्रह्वैर्जानुभिः नमस्यैर्नमस्कारै र्देवैः इयाना उपगम्यमाना चिच्छब्दश्चार्थे युजा नित्ययुक्तेन राया धनेन च संगता सखिभ्यः उत्तरा उत्कृष्टतरा ईदृशी अस्मदीयाः स्तुतीः उपश्रृणोत्वित्यन्वयः ॥ ४ ॥ पवित्रेष्ट्यां सारस्वतस्य हविषोइमाजुह्वानाइतियाज्या सूत्रितञ्च-इमाजुह्वानायुष्मदानमोभिर्दधिक्राव्णोअकारिषमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९