मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९५, ऋक् ५

संहिता

इ॒मा जुह्वा॑ना यु॒ष्मदा नमो॑भि॒ः प्रति॒ स्तोमं॑ सरस्वति जुषस्व ।
तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑ना॒ उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ॥

पदपाठः

इ॒मा । जुह्वा॑नाः । यु॒ष्मत् । आ । नमः॑ऽभिः । प्रति॑ । स्तोम॑म् । स॒र॒स्व॒ति॒ । जु॒ष॒स्व॒ ।
तव॑ । शर्म॑न् । प्रि॒यऽत॑मे । दधा॑नाः । उप॑ । स्थे॒या॒म॒ । श॒र॒णम् । न । वृ॒क्षम् ॥

सायणभाष्यम्

हे सरस्वति इमा इमान्यस्मदीयानि हवींषि जुह्वानास्तुभ्यं जुह्वतोवयं नमोभिः त्वद्विषयैर्नमस्कारैः युष्मत् त्वत्सकाशात् आ उपसर्गश्रु- तेर्योग्यक्रियाध्याहारः आददीमहि धनानीति शेषः स्तोमं चास्मदीयं प्रतिजुषस्व प्रतिसेवस्व वयञ्च प्रियतमे अतिशयेन प्रिये त्व त्वदीये शर्मन् शर्मणि सुखे दधानाः निधीयमानाः सन्तः शरणं न वृक्षं आश्रयभूतं वृक्षमिव उपस्थेयाम त्वां उपतिष्ठेन संगच्छेमहि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९