मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९६, ऋक् १

संहिता

बृ॒हदु॑ गायिषे॒ वचो॑ऽसु॒र्या॑ न॒दीना॑म् ।
सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभि॒ः स्तोमै॑र्वसिष्ठ॒ रोद॑सी ॥

पदपाठः

बृ॒हत् । ऊं॒ इति॑ । गा॒यि॒षे॒ । वचः॑ । अ॒सु॒र्या॑ । न॒दीना॑म् ।
सर॑स्वतीम् । इत् । म॒ह॒य॒ । सु॒ऽवृ॒क्तिऽभिः॑ । स्तोमैः॑ । व॒सि॒ष्ठ॒ । रोद॑सी॒ इति॑ ॥

सायणभाष्यम्

अनया ऋषिरात्मानं संबोध्य सरस्वत्याःस्तुतौ प्रेरयति हे वसिष्ठ त्वं बृहदु बृहदेव महदेव वचः स्तोत्रं गायिषे गायसि किमर्थं नदीनां मध्ये असुर्या असुरशब्दाच्चतुर्थ्येकवचनस्यड्यादेशः असुरायै बलवत्यै नदीरूपायै सरस्वत्यै अस्याः प्रीणनार्थमित्यर्थः तथा रोदसी द्यावा- पृथिव्योः स्थितां दिवि देवतारूपेण भूम्यांवाग्रूपेण निवसन्तीं सरस्वतीमित् सरस्वतीमेव सुवृक्तिभिः सुष्ठु दोषवर्जितैः स्तोमैः स्तोत्रैर्म- हय पूजय सर्वदा सरस्वतीमेव स्तुहि नान्यां देवतामिति भावः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०