मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९६, ऋक् २

संहिता

उ॒भे यत्ते॑ महि॒ना शु॑भ्रे॒ अन्ध॑सी अधिक्षि॒यन्ति॑ पू॒रवः॑ ।
सा नो॑ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो॑ म॒घोना॑म् ॥

पदपाठः

उ॒भे इति॑ । यत् । ते॒ । म॒हि॒ना । शु॒भ्रे॒ । अन्ध॑सी॒ इति॑ । अ॒धि॒ऽक्षि॒यन्ति॑ । पू॒रवः॑ ।
सा । नः॒ । बो॒धि॒ । अ॒वि॒त्री । म॒रुत्ऽस॑खा । चोद॑ । राधः॑ । म॒घोना॑म् ॥

सायणभाष्यम्

हे शुभ्रे शुभ्रवर्णे सरस्वति यत् यस्यास्ते तव महिना महिम्ना उभे अन्धसी उभयविधं दिव्यं पार्थिवं चाग्निं ग्राम्यमारण्यं वा पूरवः पूरयि- तव्या मनुष्याः अधिक्षियन्ति अधिगच्छन्ति सा त्वं अवित्री रक्षित्री सती नोस्मान् बोधि बुध्यस्व । अपिच मरुत्सखा मरुतोमाध्यमि- कादेवगणाः ते सखायोयस्या माध्यमिकाया वाचः तादृशी त्वं मघोनां हविर्लक्षणधनोपेतानामस्माकं राधोधनं चोद प्रेरय ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०