मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९६, ऋक् ४

संहिता

ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्त॑ः सु॒दान॑वः ।
सर॑स्वन्तं हवामहे ॥

पदपाठः

ज॒नि॒ऽयन्तः॑ । नु । अग्र॑वः । पु॒त्रि॒ऽयन्तः॑ । सु॒ऽदान॑वः ।
सर॑स्वन्तम् । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

जनीयन्तः जायन्तआस्वपत्यानीति जनयोजायाः ताइच्छन्तः पुत्रीयन्तः पुत्रान्कामयमानाः सुदानवः शोभनदानाः अग्रवः उपगन्तारोवयं नु अद्य सरस्वन्तं देवं हवामहे स्तुमहे आह्वयामहे वा ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०