मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९६, ऋक् ५

संहिता

ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ ।
तेभि॑र्नोऽवि॒ता भ॑व ॥

पदपाठः

ये । ते॒ । स॒र॒स्वः॒ । ऊ॒र्मयः॑ । मधु॑ऽमन्तः । घृ॒त॒ऽश्चुतः॑ ।
तेभिः॑ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥

सायणभाष्यम्

हे सरस्वः सरस्वन् देव ते त्वदीयाः ये ऊर्मयोजलसंघा मधुमन्तोरसवन्तः घृतश्चुतः घृतस्य वृष्ट्युदकस्य क्षारिणोभवन्ति तेभिस्तैरूर्मिभिः नोस्माकमविता रक्षिताभव ॥ ५ ॥ अन्वारंभणीयायां सरस्वतोयागस्य पीपिवांसमित्यनुवाक्या सूत्रितञ्च-पीपिवांसंसरस्वतोदिव्यंसुपर्णंवायसंबृहन्तमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०