मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९६, ऋक् ६

संहिता

पी॒पि॒वांसं॒ सर॑स्वत॒ः स्तनं॒ यो वि॒श्वद॑र्शतः ।
भ॒क्षी॒महि॑ प्र॒जामिष॑म् ॥

पदपाठः

पी॒पि॒ऽवांस॑म् । सर॑स्वतः । स्तन॑म् । यः । वि॒श्वऽद॑र्शतः ।
भ॒क्षी॒महि॑ । प्र॒ऽजाम् । इष॑म् ॥

सायणभाष्यम्

पीपिवासं प्रवृद्धं सर्स्वतोदेवस्य स्तनं शब्दायमानं स्तनवद्रसाधारं वा मेघं भक्षीमहि भजेमहि प्राप्नुयाम । योविश्वदर्शतोविश्वैः सर्वैर्दर्श- तोभवति दृश्यमानोभवति तं स्तनं मेघमित्यर्थः तथा प्रजां पुत्रादिरूपां इषमन्नंच सरस्वतः प्रसादाद्भक्षीमहि ॥ ६ ॥

यज्ञेदिक्रइति दशर्चमष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं प्रथमायाइन्द्रः तृतीयानवम्योरिन्द्राब्रह्मणस्पती देवता दशम्याइन्द्राबृहस्पती शिष्टानांतु बृहस्पतिः । तथाचानुक्रान्तम्-यज्ञेदशैंद्मादि बार्हस्पत्यमन्त्यैन्द्रीच तृतीयानवम्यावैन्द्राब्राह्मणस्पत्यइति । आभिप्लविकेषूक्थ्येषु तृतीयसवने स्तोमवृद्धौ ब्राह्मणाच्छंसिनः इदमुत्तरंच सूक्तमावापार्थं सूत्रितञ्च यज्ञेदिवइति सूक्तेइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०