मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९७, ऋक् १

संहिता

य॒ज्ञे दि॒वो नृ॒षद॑ने पृथि॒व्या नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति ।
इन्द्रा॑य॒ यत्र॒ सव॑नानि सु॒न्वे गम॒न्मदा॑य प्रथ॒मं वय॑श्च ॥

पदपाठः

य॒ज्ञे । दि॒वः । नृ॒ऽसद॑ने । पृ॒थि॒व्याः । नरः॑ । यत्र॑ । दे॒व॒ऽयवः॑ । मद॑न्ति ।
इन्द्रा॑य । यत्र॑ । सव॑नानि । सु॒न्वे । गम॑त् । मदा॑य । प्र॒थ॒मम् । वयः॑ । च॒ ॥

सायणभाष्यम्

यत्र यस्मिन्यज्ञे देवयवोदेवान् कामयमाना नरोनेतारऋत्विजोमदन्ति हष्यंति यत्र यस्मिंश्च सवनानि अभिषोतव्याः सोमाः इन्द्राय इन्द्रार्थं सुन्वे अभिषूयन्ते पृथिव्याः संबन्धिनि नृषदने नृणां नेतॄणां सदनभूते तस्मिन्यज्ञे प्रथमं सर्वेभ्योदेवेभ्यः पूर्वं दिवोद्युलोकात् इन्द्रः गमत् आगच्छतु किमर्थं मदाय मदार्थं सोमं पातुमित्यर्थः तथा वयश्च गन्तारः तदीयाअश्वाश्च गमत् आगच्छन्तु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१