मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९७, ऋक् २

संहिता

आ दैव्या॑ वृणीम॒हेऽवां॑सि॒ बृह॒स्पति॑र्नो मह॒ आ स॑खायः ।
यथा॒ भवे॑म मी॒ळ्हुषे॒ अना॑गा॒ यो नो॑ दा॒ता प॑रा॒वतः॑ पि॒तेव॑ ॥

पदपाठः

आ । दैव्या॑ । वृ॒णी॒म॒हे॒ । अवां॑सि । बृह॒स्पतिः॑ । नः॒ । म॒हे॒ । आ । स॒खा॒यः॒ ।
यथा॑ । भवे॑म । मी॒ळ्हुषे॑ । अना॑गाः । यः । नः॒ । दा॒ता । प॒रा॒ऽवतः॑ । पि॒ताऽइ॑व ॥

सायणभाष्यम्

हे सखायः समानख्यानाः स्तोतारः वयं दैव्या दैव्यानि देवसंबन्धीनि अवांसि रक्षणानि आवृणीमहे अभिभजामहे प्रार्थयामहे नोस्माकं हविः बृहस्पतिः बृहतां पालयिता देवः आमहे महतिर्दानार्थः आमहते आदत्ते लोपस्तआत्मनेपदेष्विति तलोपः योबृहस्पतिः परावतोदू- रदेशात् धनान्याहृत्य पुत्रेभ्यः पितेव नोस्मभ्यं दाताभवती तस्मै मीह्ळषे सेक्रे बृहस्पतये अनागाः अनागसः अनपराधा यथावयं भवेम हे सखायः तथा यूयं परिचरतेति शेषः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१