मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९७, ऋक् ३

संहिता

तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भि॑ः सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं॑ गृणीषे ।
इन्द्रं॒ श्लोको॒ महि॒ दैव्य॑ः सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा॑ ॥

पदपाठः

तम् । ऊं॒ इति॑ । ज्येष्ठ॑म् । नम॑सा । ह॒विःऽभिः॑ । सु॒ऽशेव॑म् । ब्रह्म॑णः । पति॑म् । गृ॒णी॒षे॒ ।
इन्द्र॑म् । श्लोकः॑ । महि॑ । दैव्यः॑ । सि॒स॒क्तु॒ । यः । ब्रह्म॑णः । दे॒वऽकृ॑तस्य । राजा॑ ॥

सायणभाष्यम्

ज्येष्ठं प्रशस्यतमं सुशेवं सुसुकं ब्रह्मणोमन्त्रस्य पतिं पालयितारं एतस्तज्ञं तमु तमेव,देवं नमसा नमस्कारेण हविर्भिश्चरुपुरोडाशादिभिश्च सार्धं गृणीषे गृणे स्तुवे । अपिच महि महान्तमिन्द्रं दैव्यः देवार्हः श्लोकः अस्मदीयः स्तावकोमन्त्रः सिषक्तु सेवतां ब्रह्मणोन्नस्य मन्त्रस्यवा देवकृतस्य देवैः स्तोतृभिः कृतस्य यइन्द्रोब्रह्मणस्पतिर्वा राजा ईश्वरोभवति तमिन्द्रं तं ब्रह्मणस्पतिमिति संबन्धः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१