मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९७, ऋक् ४

संहिता

स आ नो॒ योनिं॑ सदतु॒ प्रेष्ठो॒ बृह॒स्पति॑र्वि॒श्ववा॑रो॒ यो अस्ति॑ ।
कामो॑ रा॒यः सु॒वीर्य॑स्य॒ तं दा॒त्पर्ष॑न्नो॒ अति॑ स॒श्चतो॒ अरि॑ष्टान् ॥

पदपाठः

सः । आ । नः॒ । योनि॑म् । स॒द॒तु॒ । प्रेष्ठः॑ । बृह॒स्पतिः॑ । वि॒श्वऽवा॑रः । यः । अस्ति॑ ।
कामः॑ । रा॒यः । सु॒ऽवीर्य॑स्य । तम् । दा॒त् । पर्ष॑त् । नः॒ । अति॑ । स॒श्चतः॑ । अरि॑ष्टान् ॥

सायणभाष्यम्

प्रेष्ठः प्रियतमः सबृहस्पतिः नोस्माकं योनिं स्थानं वेदिलक्शणं आसदतु आसीदतु आगत्योपविशतु योबृहस्पतिः विश्ववारः विश्वैर्वरणीयोस्ति भवति । अपिच रायोधनस्य सुवीर्यस्य शोभनवीर्यस्य च यः कामोस्माकमभिलाषोस्ति तं कामं अस्मभ्यं दात् ददातु काम्यमानं यच्छत्वित्यर्थः । तथा सश्चतः उपद्रवैः संसक्तान् नोस्मानरिष्टानहिंसितान्कृत्वा अति पर्षत् अतिपारयतु शत्रून् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१