मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९७, ऋक् ५

संहिता

तमा नो॑ अ॒र्कम॒मृता॑य॒ जुष्ट॑मि॒मे धा॑सुर॒मृता॑सः पुरा॒जाः ।
शुचि॑क्रन्दं यज॒तं प॒स्त्या॑नां॒ बृह॒स्पति॑मन॒र्वाणं॑ हुवेम ॥

पदपाठः

तम् । आ । नः॒ । अ॒र्कम् । अ॒मृता॑य । जुष्ट॑म् । इ॒मे । धा॒सुः॒ । अ॒मृता॑सः । पु॒रा॒ऽजाः ।
शुचि॑ऽक्रन्दम् । य॒ज॒तम् । प॒स्त्या॑नाम् । बृह॒स्पति॑म् । अ॒न॒र्वाण॑म् । हु॒वे॒म॒ ॥

सायणभाष्यम्

तं सर्वत्रभोक्तव्यतयाप्रसिद्धं अमृताय अमरणत्वाय जीवनाय जुष्टं पर्याप्तमर्कमर्चनसाधनमन्नं पुराजाः पुराजाताइमे अमृतासः अमरणादेवाः बृहस्पतेराज्ञया नोस्मभ्यं आधासुः प्रदद्युः । वयं च शुचिक्रन्दं शुद्धस्तोत्रं पस्त्यानां पस्त्यमितिगृहनाम तेन तद्वन्तोलक्ष्यन्ते गृहिणां यजतं यष्टव्यं अनर्वाणं अप्रत्यृतं केनाप्यप्रतिगतं बृहस्पतिं बृहतां पालकं देवं हुवेम आह्वयाम स्तुयेम वा ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१