मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९७, ऋक् ७

संहिता

स हि शुचि॑ः श॒तप॑त्र॒ः स शु॒न्ध्युर्हिर॑ण्यवाशीरिषि॒रः स्व॒र्षाः ।
बृह॒स्पति॒ः स स्वा॑वे॒श ऋ॒ष्वः पु॒रू सखि॑भ्य आसु॒तिं करि॑ष्ठः ॥

पदपाठः

सः । हि । शुचिः॑ । श॒तऽप॑त्रः । सः । शु॒न्ध्युः । हिर॑ण्यऽवाशीः । इ॒षि॒रः । स्वः॒ऽसाः ।
बृह॒स्पतिः॑ । सः । सु॒ऽआ॒वे॒शः । ऋ॒ष्वः । पु॒रु । सखि॑ऽभ्यः । आ॒ऽसु॒तिम् । करि॑ष्ठः ॥

सायणभाष्यम्

सहि सखलु बृहस्पतिः शुचिः शुद्धः शतपत्रः बहुविधवाहनः सएवशुन्ध्युः सर्वेषां शोधयिता हिरण्यवाशीः वाशीति वाङ्गम हितरमणी- यवाक् यद्वा वाशीभिस्तक्षताश्मन्मयीभिरिति निगमात् । वाशी आयुधं स्वर्णमयायुधः इषिरोगन्ता अभ्येषणीयोवा स्वर्षाः स्वर्गस्यसंभक्ता यद्वा सरणशीलस्योदकस्य सनिता दाता सएव बृहस्पतिः स्वावेशः सुनिवासः ऋष्वः दर्शनीयः ईदृशोदेवः । सखिभ्यः स्तोतृभ्यः पुरु बहुलं आसुतिमन्नं करिष्ठः कर्तृतमो दातृतमोभवति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२