मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९७, ऋक् ८

संहिता

दे॒वी दे॒वस्य॒ रोद॑सी॒ जनि॑त्री॒ बृह॒स्पतिं॑ वावृधतुर्महि॒त्वा ।
द॒क्षाय्या॑य दक्षता सखाय॒ः कर॒द्ब्रह्म॑णे सु॒तरा॑ सुगा॒धा ॥

पदपाठः

दे॒वी इति॑ । दे॒वस्य॑ । रोद॑सी॒ इति॑ । जनि॑त्री॒ इति॑ । बृह॒स्पति॑म् । व॒वृ॒ध॒तुः॒ । म॒हि॒ऽत्वा ।
द॒क्षाय्या॑य । द॒क्ष॒त॒ । स॒खा॒यः॒ । कर॑त् । ब्रह्म॑णे । सु॒तरा॑ । सु॒ऽगा॒धा ॥

सायणभाष्यम्

देवी देव्यौ दानादिगुणयुक्ते देवस्य बृहस्पतेर्जनित्री जनयित्र्यौ रोदसी द्यावापृथिव्यौ महित्वा महत्वेन युक्तं बृहस्पतिं ववृधतुः वर्धया- मासतुः हे सखायोयूयमपि दक्षाय्याय वर्धनीयाय द्वितीयार्थे चतुर्थी वर्धनीयं तं बृहस्पतिं दक्षत वर्धयत । सच बृहस्पतिः ब्रह्मणे बृंहिताय प्रभूतायान्नाय तदर्थं सुतरा सुतरणानि सुखेन तरणीयानि सुगाधा सुखेनावगाहनीयानि उदकानि करत् करोतु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२