मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९७, ऋक् ९

संहिता

इ॒यं वां॑ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ अकारि ।
अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥

पदपाठः

इ॒यम् । वा॒म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । सु॒ऽवृ॒क्तिः । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ । अ॒का॒रि॒ ।
अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा॑म् । अरा॑तीः ॥

सायणभाष्यम्

हे ब्रह्मणस्पते तुभ्यं वज्रिणे वज्रवतेइन्द्राय च वां युवाभ्यां तादर्थ्ये चतुर्थी ब्रह्म मंत्ररूपा इयं सुवृक्तिः सुप्रवृत्तास्तुतिः अकारि मया कृताभूत् तौ युवां धियोस्मदीयानि कर्माणि अविष्टं रक्षतम् । तथा पुरन्धीः पुरुधीः बह्वीःस्तुतीः जिगृतं निगिरतं शृणुतमितियावत् । अर्यः अरीः अभिगंत्रीः वनुषां संभक्तॄणामस्माकं अरातीः शत्रुसेनाः जजस्तं उपक्षपयतम् ॥ ९ ॥ तृतीये सवने उक्थ्ये ब्राह्मणाच्छंसिनो बृहस्पतेयुवमिति शस्त्रयाज्या सूत्रितञ्च-बृहस्पतेयुवमिन्द्रश्चवस्वइति याज्येति । वाजपेयेति- रिक्तोक्थ्यस्य एषैवपरिधानीया सूत्रितञ्च-बृहस्पतेयुवमिन्द्रश्चवस्वइति परिधानीयेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२