मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९७, ऋक् १०

संहिता

बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।
ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

बृह॑स्पते । यु॒वम् । इन्द्रः॑ । च॒ । वस्वः॑ । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य ।
ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हेबृहस्पते त्वञ्च इन्द्रश्च युवं युवां दिव्यस्य दिविभवस्य वस्वोवसुनोधनस्य उतापि च पार्थिवस्य पृथिव्यां भवस्य धनस्य ईशाथे अतः कारणात् स्तुवते स्तोत्रं कुर्वते कीरये स्तोतृनामैतत् स्तोत्रे रयिं धनं धत्तं दत्तं चिदिति पूरणः अन्यद्गतम् ॥ १० ॥

अध्वर्यवइति सप्तर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं सप्तस्यैन्द्राबार्हस्पत्या तथाचानुक्रान्तम्-अध्वर्यवः सप्तोक्तदेवतान्त्येति । पूर्व- सूक्तेनसहोक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२