मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९८, ऋक् २

संहिता

यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि ।
उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्नि॑न्द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ॥

पदपाठः

यत् । द॒धि॒षे । प्र॒ऽदिवि॑ । चारु॑ । अन्न॑म् । दि॒वेऽदि॑वे । पी॒तिम् । इत् । अ॒स्य॒ । व॒क्षि॒ ।
उ॒त । हृ॒दा । उ॒त । मन॑सा । जु॒षा॒णः । उ॒शन् । इ॒न्द्र॒ । प्रऽस्थि॑तान् । पा॒हि॒ । सोमा॑न् ॥

सायणभाष्यम्

हे इन्द्र प्रदिवि प्रगतेषु दिवसेषु पूर्वस्मिन्काले चारु शोभनं यत् सोमलक्षणमन्नं दधिषे पानेनोदरे धारयसि अस्य सोमस्य पीतिमित् पानमेव दिवेदिवे प्रतिदिवसं इदानीमपि वक्षि कामयसे वशकान्तावित्यस्य सिपि शपोलुकि षत्वकत्वषत्वेष्वेतद्रूपम् उतापिच हे इन्द्र त्दृदा त्दृदयेन उत शब्दश्चर्थे मनसा च जुषाणः सेवमानः उशन् अस्मान् कामयमानस्त्वं प्रस्थितान् पुरस्तान्नीतान् उत्तरवेदिस्थान् सोमान् पाहि पिब ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३