मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९८, ऋक् ३

संहिता

ज॒ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते॑ मा॒ता म॑हि॒मान॑मुवाच ।
एन्द्र॑ पप्राथो॒र्व१॒॑न्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥

पदपाठः

ज॒ज्ञा॒नः । सोम॑म् । सह॑से । प॒पा॒थ॒ । प्र । ते॒ । मा॒ता । म॒हि॒मान॑म् । उ॒वा॒च॒ ।
आ । इ॒न्द्र॒ । प॒प्रा॒थ॒ । उ॒रु । अ॒न्तरि॑क्षम् । यु॒धा । दे॒वेभ्यः॑ । वरि॑वः । च॒क॒र्थ॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं जज्ञानोजायमानएव सहसे बलाय सोमं पपाथ पीतवानसि ते तव महिमानं महत्त्वं माता त्वदीया जननी अदितिः प्रोवाच प्रोक्तवती संवादसूक्ते अयंपन्थाइत्यादिके । नहीन्वस्येत्यर्धर्चादारभ्य अदित्याइन्द्रमहत्वस्योक्तत्वात् । अतः कारणात् हे इन्द्र त्वं उरु विस्तीर्णमन्तरिक्षं आपप्राथ स्वतेजसा आपूरितवानसि । अपिच युधा युद्धेन देवेभ्यः स्तोतृभ्योदेवेभ्यएववा वरिवोधनं चकर्थ कृतवानसि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३