मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९८, ऋक् ५

संहिता

प्रेन्द्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑ ।
य॒देददे॑वी॒रस॑हिष्ट मा॒या अथा॑भव॒त्केव॑ल॒ः सोमो॑ अस्य ॥

पदपाठः

प्र । इन्द्र॑स्य । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि॑ । प्र । नूत॑ना । म॒घऽवा॑ । या । च॒कार॑ ।
य॒दा । इत् । अदे॑वीः । अस॑हिष्ट । मा॒याः । अथ॑ । अ॒भ॒व॒त् । केव॑लः । सोमः॑ । अ॒स्य॒ ॥

सायणभाष्यम्

इन्द्रस्य कृतानि वीर्यकर्माणि प्रथमा प्रथमानि पुरातनानि प्रवोचं प्रब्रवीमि । मघवा धनवानिन्द्रः या यानि चकार कृतवान् नूतना नूतनान्यभिनवानिच तानि प्रवोचं यदेत् यदैव अदेवीः आसुरीर्मायाः तैः कृताः असहिष्ट अभ्यभूत् अथानन्तरमेव अस्येन्द्रस्य सोमः केवलः असाधारणो॓ऽभवत् तदा प्रभृत्येव सोमस्येन्द्रस्य चासाधारणः संबन्धोजातइत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३