मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९८, ऋक् ६

संहिता

तवे॒दं विश्व॑म॒भितः॑ पश॒व्यं१॒॑ यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य ।
गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्व॑ः ॥

पदपाठः

तव॑ । इ॒दम् । विश्व॑म् । अ॒भितः॑ । प॒श॒व्य॑म् । यत् । पश्य॑सि । चक्ष॑सा । सूर्य॑स्य ।
गवा॑म् । अ॒सि॒ । गोऽप॑तिः । एकः॑ । इ॒न्द्र॒ । भ॒क्षी॒महि॑ । ते॒ । प्रऽय॑तस्य । वस्वः॑ ॥

सायणभाष्यम्

हे इन्द्र पशव्यं पशवोद्विविधाः द्विपादश्चतुष्पादश्च तेभ्योहितं अभितः सर्वतोविद्यमानं इदं विश्वं सर्वं जगत् तव तवैव स्वभूतं सूर्यस्य प्रेरकस्यादित्यस्य चक्षसा तेजसा यद्विश्वं पश्यसि त्वं प्रकाशयसि अपिच हे इन्द्र एकएव त्वं गोपतिरसि नकेवलमेकस्याएव गोपतिः अपितु सर्वासामित्याह गवामिति अतः कारणात् ते त्वया प्रयतस्य प्रत्तस्य द्वितीयार्थेषष्ठी प्रत्तं वस्वोधनं भक्षीमहि भजेमहि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३