मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९९, ऋक् १

संहिता

प॒रो मात्र॑या त॒न्वा॑ वृधान॒ न ते॑ महि॒त्वमन्व॑श्नुवन्ति ।
उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ वित्से ॥

पदपाठः

प॒रः । मात्र॑या । त॒न्वा॑ । वृ॒धा॒न॒ । न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । अ॒श्नु॒व॒न्ति॒ ।
उ॒भे इति॑ । ते॒ । वि॒द्म॒ । रज॑सी॒ इति॑ । पृ॒थि॒व्याः । विष्णो॒ इति॑ । दे॒व॒ । त्वम् । प॒र॒मस्य॑ । वि॒त्से॒ ॥

सायणभाष्यम्

परइति सकारान्तं परस्तादित्यस्यार्थे परशब्दाच्छान्दसोसिप्प्रत्ययः परोदिवापरएनापृथिव्येतियथा । मात्रयेति पञ्चम्यर्थे व्यत्ययेन तृतीया मात्रायाः परः परस्ताद्वर्तमानया अपरिमितया तन्वा शरीरेण वृधान वर्धमान हे विष्णो ते तव महित्वं महत्त्वं नान्वश्नुवन्ति नानुव्याप्नुवन्ति त्रैविक्रमसमये यत्तवमाहात्म्यं तत्सर्वैरपि जनैर्ज्ञातुं नशक्यतइत्यर्थः । ते तव उभे रजसी उभौ लोकौ पृथिव्या आरभ्य पृथिवीमन्तरिक्षञ्च विद्म जानीमोवयं चक्षुषोपलभामहे नान्यत् हेदेव द्योतमान विष्णो त्वमेव परमस्य स्वर्गादेरुत्कृष्टलोकस्य द्वितीयार्थेषष्ठी परमं लोकं वित्से जानासि अतस्तव महत्वं नकेनापि व्याप्तुं शक्यमितिभावः ॥ १ ॥ पूर्वोक्तीवपशौ नतेविष्णोइति वपायाअनुवाक्या सूत्रितञ्च-नतेविष्णोजायमानोनजातस्त्वंविष्णोसुमतिंविश्वजन्यामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४