मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९९, ऋक् २

संहिता

न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप ।
उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हन्तं॑ दा॒धर्थ॒ प्राचीं॑ क॒कुभं॑ पृथि॒व्याः ॥

पदपाठः

न । ते॒ । वि॒ष्णो॒ इति॑ । जाय॑मानः । न । जा॒तः । देव॑ । म॒हि॒म्नः । पर॑म् । अन्त॑म् । आ॒प॒ ।
उत् । अ॒स्त॒भ्नाः॒ । नाक॑म् । ऋ॒ष्वम् । बृ॒हन्त॑म् । दा॒धर्थ॑ । प्राची॑म् । क॒कुभ॑म् । पृ॒थि॒व्याः ॥

सायणभाष्यम्

हे देव दानादिगुणयुक्त विष्णो ते तव महिम्नः महत्त्वस्य परं विप्रकृष्टं अन्तमवसानं जायमानः प्रादुर्भवन् जनः नाप नप्राप्नोति । तथा जातः प्रादुर्भूतोपि जनोनैव प्राप्नोति तव महत्त्वस्यावसानं नास्ति अतएव सर्वैर्नज्ञायतइतिभावः कोसौ महिमा तमाह ऋष्वं दर्शनीयं बृहन्तं महान्तं नाकं द्युलोकं उदस्तभ्नाः त्वंऊर्ध्वमधारयः यथा अधोनपतति तथा पृथिव्याभूमेः संबंधिनीं प्राचीं ककुभञ्च दाधर्थ धारितवानसि उपलक्षणमेतत् सर्वस्य भूतजातस्य तथाचमंत्रान्तरम्-यउत्रिधातुपृथिवीमुतद्यामेकोदाधारभुवनानिविश्वेति ॥ २ ॥ पूर्वोक्तएवपशौ इरावतीइति हविषोयाज्या सूत्रितञ्च-इरावतीधेनुमतीहिभूतं विश्वकर्मनहविषावावृधानइति द्वेइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४