मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९९, ऋक् ४

संहिता

उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय॑न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् ।
दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥

पदपाठः

उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊं॒ इति॑ । लो॒कम् । ज॒नय॑न्ता । सूर्य॑म् । उ॒षस॑म् । अ॒ग्निम् ।
दास॑स्य । चि॒त् । वृ॒ष॒ऽशि॒प्रस्य॑ । मा॒याः । ज॒घ्नथुः॑ । न॒रा॒ । पृ॒त॒नाज्ये॑षु ॥

सायणभाष्यम्

हे इन्द्राविष्णू यज्ञाय यजमानाय उरुं विस्तीर्णं लोकं स्वर्गाख्यं चक्रथुरु कृतवन्तौखलु युवाम् । किं कुर्वन्तौ सूर्यं सर्वस्य प्रेरकमादित्यं उषसं तमोनिवारकमुषःकालं अग्निञ्च असुरैरावृतं जनयन्ता जनयन्तौ पुनः प्रादुर्भावयन्तौ हे नरा नेताराविन्द्राविष्णू वृषशिप्रस्य एतत्संज्ञकस्य दासस्य चित् उपक्षपयितुः असुरस्य मायाः पृतनाज्येषु संग्रामेषु जघ्नथुः जिहिंसथुर्युवां सूर्यादिकं जनयन्तावित्युच्यते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४