मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९९, ऋक् ५

संहिता

इन्द्रा॑विष्णू दृंहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टम् ।
श॒तं व॒र्चिनः॑ स॒हस्रं॑ च सा॒कं ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥

पदपाठः

इन्द्रा॑विष्णू॒ इति॑ । दृं॒हि॒ताः । शम्ब॑रस्य । नव॑ । पुरः॑ । न॒व॒तिम् । च॒ । श्न॒थि॒ष्ट॒म् ।
श॒तम् । व॒र्चिनः॑ । स॒हस्र॑म् । च॒ । सा॒कम् । ह॒थः । अ॒प्र॒ति । असु॑रस्य । वी॒रान् ॥

सायणभाष्यम्

हे इन्द्राविष्णू दृंहिताः दृढीकृताः नव नवतिंच नवोत्तरनवतिसंख्याकाः पुरः पुराणि शंबरस्य स्वभूतानि श्नथिष्टम् अहिंसिष्टम् । श्नथहिंसायाम् । अपिच शतं सहस्रञ्च वर्चिनोअसुरस्यवीरान् अप्रति प्रतिद्वंद्विनोयथानभवन्ति तथा साकं सह संघशएव हथः अहिंसिष्टम् । योवर्चिनःशतमिन्द्रः सहस्रमितिहि निगमान्तरम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४