मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९९, ऋक् ७

संहिता

वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् ।
वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

वष॑ट् । ते॒ । वि॒ष्णो॒ इति॑ । आ॒सः । आ । कृ॒णो॒मि॒ । तत् । मे॒ । जु॒ष॒स्व॒ । शि॒पि॒ऽवि॒ष्ट॒ । ह॒व्यम् ।
वर्ध॑न्तु । त्वा॒ । सु॒ऽस्तु॒तयः॑ । गिरः॑ । मे॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे विष्णो ते तुभ्यं आसः आस्यात् आ अभीमुखं वषट्कृणोमि वषट्करोमि वषट्कारेण हविर्हावयामि । हे शिपिविष्ट शिपयोश्मयः तैराविष्ट विष्णो तत् वषट्कृतं मे मदीयं हव्यं हविर्जुषस्व सेवस्व । सुष्टुतयः शोभनस्तुत्यात्मिका गिरोवाचश्च त्वा त्वां वर्धन्तु वर्धयन्तु । अन्यद्गतम् ॥ ७ ॥

नूमर्तइति सप्तर्चं द्वादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैष्णवम् नूमर्तइत्यनुक्रान्तम् उक्थ्येच्छावाकशस्त्रे इदंशंसनीयं सूत्रितञ्च-ऋतुर्ज- नित्रीनूमर्तोभवामित्रइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४