नू मर्तो॑ दयते सनि॒ष्यन्यो विष्ण॑व उरुगा॒याय॒ दाश॑त् ।
प्र यः स॒त्राचा॒ मन॑सा॒ यजा॑त ए॒ताव॑न्तं॒ नर्य॑मा॒विवा॑सात् ॥
नु । मर्तः॑ । द॒य॒ते॒ । स॒नि॒ष्यन् । यः । विष्ण॑वे । उ॒रु॒ऽगा॒याय॑ । दाश॑त् ।
प्र । यः । स॒त्राचा॑ । मन॑सा । यजा॑ते । ए॒ताव॑न्तम् । नर्य॑म् । आ॒ऽविवा॑सात् ॥
समर्तोमनुष्यः सनिष्यन् धनमिच्छन् नु क्षिप्रं दयते धनमादत्ते दयतिराङ्पूर्वार्थेद्रष्टव्यः योमनुष्यः उरुगायाय बहुभिः कीर्तनीयाय विष्णवे दाशत् हवींषि दद्यात् यश्च सत्राचा सहाञ्चता मनसा मननेन स्तोत्रेण प्रयजाते प्रकर्षेण पूजयेत् एतावन्तं एतावत् परिमाणं महान्तं नर्यं नरेभ्योहितं विष्णुं आविवासात् नमस्कारादिभिः परिचरेत् समर्तोदयतइत्यन्वयः । यद्वा सनिष्यन्निति सनतेर्लाभार्थस्य ऌटि रूपम् समर्तः सनिष्यन् धनादीनि लप्स्यमानोभवन्नेव हविरादिकं नु क्षिप्रं दयते विष्णवे ददातीति योज्यम् ॥ १ ॥ विष्णुदेवत्येपशौ पुरोडाशस्य त्वंविष्णोइत्यनुवाक्या सूत्रितञ्च-त्वंविष्णोसुमतिंविश्वजन्यां विचक्रमेपृथिवीमेषएतामिति ।