मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १००, ऋक् २

संहिता

त्वं वि॑ष्णो सुम॒तिं वि॒श्वज॑न्या॒मप्र॑युतामेवयावो म॒तिं दा॑ः ।
पर्चो॒ यथा॑ नः सुवि॒तस्य॒ भूरे॒रश्वा॑वतः पुरुश्च॒न्द्रस्य॑ रा॒यः ॥

पदपाठः

त्वम् । वि॒ष्णो॒ इति॑ । सु॒ऽम॒तिम् । वि॒श्वऽज॑न्याम् । अप्र॑ऽयुताम् । ए॒व॒ऽया॒वः॒ । म॒तिम् । दाः॒ ।
पर्चः॑ । यथा॑ । नः॒ । सु॒वि॒तस्य॑ । भूरेः॑ । अश्व॑ऽवतः । पु॒रु॒ऽच॒न्द्रस्य॑ । रा॒यः ॥

सायणभाष्यम्

हे एवयावः एवाः प्राप्तव्याः कामाः तान् यावयति प्रापयति स्तोतॄनित्येवयावः हे एवयावन् विष्णो त्वं विश्वजन्यां सर्वजनहितां अप्रयुतां दोषैर्वियुक्तां सुमतिं मतिं अनुग्रहबुद्धिं दाः अस्मभ्यं देहि सुवितस्य सुष्ठु प्राप्तव्यस्य भूरेर्बहुलस्य अश्वावतोश्वयुक्तस्य परुश्चन्द्रस्य पुरू- णां बहूनां आह्लादकस्य रायोधनस्य पर्चः संपर्कोनोस्माकं यथा भवति तथा देहीत्यन्वयः ॥ २ ॥ वैष्णव्यस्योपांशुयाजस्य त्रिर्देवइतियाज्या सूत्रितञ्च-इदंविष्णुर्विचक्रमे त्रिर्देवःपृथिवीमेषएतामिति । वैष्णव्येपशावप्येषैव वपायाज्या सूत्रितञ्च-त्रिर्देवःपृथिवीमेषएतां परोमात्रयातन्वावृधानेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५