मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १००, ऋक् ३

संहिता

त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा ।
प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान्त्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥

पदपाठः

त्रिः । दे॒वः । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । वि । च॒क्र॒मे॒ । श॒तऽअ॑र्चसम् । म॒हि॒ऽत्वा ।
प्र । विष्णुः॑ । अ॒स्तु॒ । त॒वसः॑ । तवी॑यान् । त्वे॒षम् । हि । अ॒स्य॒ । स्थवि॑रस्य । नाम॑ ॥

सायणभाष्यम्

एषदेवोदानादिगुणयुक्तोविष्णुः शतर्चसं शतसंख्यान्यर्चीषि यस्यास्तादृशीं एतां पृथिवीं उपलक्षणमेतत् पृथिव्यादीन् त्रीन् लोकान् महित्वा महत्त्वेन त्रिर्विचक्रमे त्रिभिः पदैर्विक्रान्तवान् तवसः तवस्विनोवृद्धादपि तवीयान् तवस्वितरोविष्णुः प्रास्तु अस्माकं प्रभवतु स्वामीभवतु अस्यस्थविरस्य वृद्धस्य विष्णोर्नाम नामकं रूपं विष्णुरित्येतन्नामैववा त्वेषं हि यस्माद्दीप्तं तस्मात् कारणात् सविष्णुः प्रभवत्वित्यर्थः ॥ ३ ॥ पूर्वोक्तएवपशौ विचक्रमइति वपायाअनुवाक्या सूत्रितञ्च-विचक्रमेपृथिवीमेषएतां त्रिर्देवःपृथिवीमेषएतामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५