मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०१, ऋक् १

संहिता

ति॒स्रो वाच॒ः प्र व॑द॒ ज्योति॑रग्रा॒ या ए॒तद्दु॒ह्रे म॑धुदो॒घमूधः॑ ।
स व॒त्सं कृ॒ण्वन्गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो॑रवीति ॥

पदपाठः

ति॒स्रः । वाचः॑ । प्र । व॒द॒ । ज्योतिः॑ऽअग्राः । याः । ए॒तत् । दु॒ह्रे । म॒धु॒ऽदो॒घम् । ऊधः॑ ।
सः । व॒त्सम् । कृ॒ण्वन् । गर्भ॑म् । ओष॑धीनाम् । स॒द्यः । जा॒तः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥

सायणभाष्यम्

यस्य निःश्वसितं वेदा योवेदेभ्योखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ सप्तमोव्याख्यायते-सप्तममण्डलस्य षष्ठेनुवाके द्वादशसूक्तानि व्याख्यातानि । तिस्रोवाचइतिषळृचं त्रयोदशं सूक्तम् अत्रानुक्रम्यते-तिस्रःषट् पार्जन्यंत्विति । एते कुमार आग्नेयोपश्यद्वसिष्ठएववेति वक्ष्यमाणत्वाद- ग्निपुत्रः कुमारऋषिः वसिष्ठोवा अनुक्तत्वान्त्रिष्टुप् इदमुत्तरञ्च पर्जन्यदैवत्यम् । अत्र शौनकः-आस्यदघ्नं विगात्द्यापः प्राङ्मुखः प्रयतः शुचिः । सूक्ताभ्यां तिस्रआदिभ्यामुपतिष्ठेत भास्करम् । अनश्नतैतज्जप्तव्यं वृष्टिकामेन यत्नतः । पंचरात्रेप्यतिक्रान्ते महतीं वृष्टिमाप्नु- यादिति ॥

ऋषिरात्मानं स्तुतौ प्रेरयति हे ऋषे तिस्रः त्रिविधाः ऋग्यजुःसामात्मिकाः स्तुतिरूपावाचः प्रवद प्रब्रूहि कीदृश्योवाचःज्योतिर्द्योतमानः प्रण्वःअग्रे प्रमुखोयासांतादृशीः या वाचः मधुदोघं मधुनउदकस्य दोहकं वृष्ट्युदकस्य कर्तारं एतत् नभसि दृश्यमानं ऊधः उद्धतं मेघं यद्वा लुप्तोपममेतत् ऊध इव पयसआश्रयभूतं मेघं दुह्रे दुहते दुहेर्लटिलोपस्तआत्मनेपदेष्विति तलोपः बाहुलकोरुट् स्तोत्रैःप्रीतोहि पर्जन्यः मेघैर्वर्षयति अतो वाचएव दुहन्तीत्युपचर्यते यद्वा वदेति व्यत्ययेन मध्यमः तिस्रइति द्रुतविलम्बितमध्यमभेदेन त्रिविधाः ज्योतिरग्राः विद्युत्प्रमुखावाचः प्रवदतेति या गर्जितलक्षणावाचः वृष्टिप्रदमेतं मेघं दुह्रे उदकानि दुहन्ति एवंभूतः सच पर्जन्यः वत्सं सह निवसन्तं वैद्युताग्निं कृण्वन्प्रादुष्कुर्वन् तमेव ओषधीनां व्रीत्द्यादीनांच गर्भं कुर्वन् सद्यः शीघ्रं जातः प्रादुर्भूतो वृषभो वर्षितासन् रोरवीति भृशं शब्दायते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः