मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०१, ऋक् २

संहिता

यो वर्ध॑न॒ ओष॑धीनां॒ यो अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे॑ ।
स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत्त्रि॒वर्तु॒ ज्योति॑ः स्वभि॒ष्ट्य१॒॑स्मे ॥

पदपाठः

यः । वर्ध॑नः । ओष॑धीनाम् । यः । अ॒पाम् । यः । विश्व॑स्य । जग॑तः । दे॒वः । ईशे॑ ।
सः । त्रि॒ऽधातु॑ । श॒र॒णम् । शर्म॑ । यं॒स॒त् । त्रि॒ऽवर्तु॑ । ज्योतिः॑ । सु॒ऽअ॒भि॒ष्टि । अ॒स्मे इति॑ ॥

सायणभाष्यम्

यः पर्जन्य ओषधीनां वर्धनो वर्धयिता यश्च अपामुदकानां वर्धकः यश्च देवोद्योतमानः पर्जन्यो विश्वस्य सर्वस्य जगतः ईशे ईष्टे लोपस्त- आत्मनेपदेष्विति तलोपः अधीगर्थेति कर्मणि शेषत्वेन विवक्षिते षष्ठी अनुदात्तेत्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः यद्वृत्तान्नित्य- मिति निघातप्रतिषेधः सपर्जन्यः त्रिधातु त्रिभूमिकं शरणं गृहं शर्म सुखं च यंसत् यच्छतु अस्मभ्यं ददात्वित्यर्थः । यमेर्लेट्यडागमः सिब्बहुलमिति सिप् इतश्चलोपइतीकारलोपः तथा त्रिवर्तु त्रिष्वृतुषु अतिशयेन वर्तमानं श्रूयतेहि-त्रीणिवा आदित्यस्य तेजांसि वसन्ताप्रातर्ग्रीष्मे मध्यन्दिने शरद्यपराह्णइति । एवंविधं स्वभिष्टि स्वभ्येषणं ज्योतिस्तेजश्च अस्मे अस्मभ्यं प्रयच्छतु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः