मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०१, ऋक् ३

संहिता

स्त॒रीरु॑ त्व॒द्भव॑ति॒ सूत॑ उ त्वद्यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।
पि॒तुः पय॒ः प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ॥

पदपाठः

स्त॒रीः । ऊं॒ इति॑ । त्व॒त् । भव॑ति । सूतः॑ । ऊं॒ इति॑ । त्व॒त् । य॒था॒ऽव॒शम् । त॒न्व॑म् । च॒क्रे॒ । ए॒षः ।
पि॒तुः । पयः॑ । प्रति॑ । गृ॒भ्णा॒ति॒ । मा॒ता । तेन॑ । पि॒ता । व॒र्ध॒ते॒ । तेन॑ । पु॒त्रः ॥

सायणभाष्यम्

त्वदिति तकारान्तोन्यशब्दपर्यायोनुदात्तः सर्वनामसुपठितः अस्य पर्जन्यस्य त्वत् अन्यद्रूपं स्तरीः निवृत्तप्रसवागौः सा यथा नदोग्ध्री तद्वद्वर्षुकं न भवति उइति पूरकः द्वितीयउशब्दश्चार्थे त्वत् अन्यच्चरूपम् सूते धेनुवत्प्रसूते उदकानि प्रवर्षति एष पर्जन्यः तन्वं स्वकीयं शरीरं यथावशं यथाकामं स्तरीत्वेन धेनुत्वेन च चक्रे करोति अपिच पितुर्दिवःसकाशात् पयः वृष्ट्युदकं माता पृथिवी प्रतिगृभ्णाति प्रतिगृह्णाति हृग्रहोर्भइति भत्वम् प्रतिगृहीतेन तेन हविरात्मना परिणतेन पिता द्युलोकोवर्धते तेनैवोदकेन पुत्रः पृथिव्यां भवः प्राणिसंघोपि वर्धते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः