मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०१, ऋक् ४

संहिता

यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुरापः॑ ।
त्रय॒ः कोशा॑स उप॒सेच॑नासो॒ मध्व॑ः श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥

पदपाठः

यस्मि॑न् । विश्वा॑नि । भुव॑नानि । त॒स्थुः । ति॒स्रः । द्यावः॑ । त्रे॒धा । स॒सुः । आपः॑ ।
त्रयः॑ । कोशा॑सः । उ॒प॒ऽसेच॑नासः । मध्वः॑ । श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥

सायणभाष्यम्

यस्मिन्पर्जन्ये विश्वानि भुवानि सर्वाणि भूतजातानि त्स्थुस्तिष्ठंति यदधीनवृत्तीनि भवन्तीत्यर्थः । यस्मिंश्च द्यावोद्युप्रभृतयोलोका अवतिष्ठन्ते यस्माच्च आपस्रेधा सस्रुः प्राच्यः प्रतीच्योवाच्यश्च सत्यो निर्गच्छन्ति उपसेचनासः त्रयः पौरस्त्यः प्रतीच्यउदीच्यश्चेति त्रिप्रकाराः कोशासोमेघाः विरप्शं महान्तं पर्जन्यमभितः परितः मध्वः कर्मणिषष्ठी मधु उदकं श्चोतन्ति क्षारयन्ति वर्षन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः