मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०१, ऋक् ६

संहिता

स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि॑न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च ।
तन्म॑ ऋ॒तं पा॑तु श॒तशा॑रदाय यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

सः । रे॒तः॒ऽधाः । वृ॒ष॒भः । शश्व॑तीनाम् । तस्मि॑न् । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ।
तत् । मा॒ । ऋ॒तम् । पा॒तु॒ । श॒तऽशा॑रदाय । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

सपर्जन्यः शश्वतीनां बह्वीनामोषधीनां रेतोधाः रेतसउदकस्य बीजभूतस्य धाता विनिधाता भवति वृषभइत्युपमा यथा कश्चिद्वृषभः बह्वीनां गवां गर्भस्याधाता भवति तद्वत् अतस्तस्मिन् पर्जन्ये जगतो जङ्गमस्य तस्थुषः स्थावरस्य च आत्मा देहो वर्तते तत्पर्जन्येन दत्तं ऋतमुदकं मा मां शतशारदाय शतसंवत्सरजीवनार्थं पातु रक्षतु माशब्दस्य ऋत्यकइति प्रकृतिभावो ह्रस्वत्वञ्च । अन्यद्गतम् ॥ ६ ॥

पर्जन्यायेति तृचं चतुर्दशं सूक्तं गायत्रम् पूर्ववदृषिदेवते तथाचानुक्रान्तम्-पर्जन्यायतृचं गायत्रमिति वैश्वानरपार्जन्यायामन्वारंभणी- यायां पार्जन्यस्य चरोः पर्जन्यायेत्यनुवाक्या सूत्र्यतेहि-पर्जन्यायप्रगायत प्रवातावान्तिपतयन्तिविद्युतइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः