मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०२, ऋक् १

संहिता

प॒र्जन्या॑य॒ प्र गा॑यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे॑ ।
स नो॒ यव॑समिच्छतु ॥

पदपाठः

प॒र्जन्या॑य । प्र । गा॒य॒त॒ । दि॒वः । पु॒त्राय॑ । मी॒ळ्हुषे॑ ।
सः । नः॒ । यव॑सम् । इ॒च्छ॒तु॒ ॥

सायणभाष्यम्

हे स्तोतारः पर्जन्याय देवाय प्रगायत प्रकर्षेण स्तोत्रमुच्चारयत कीदृशाय दिवोन्तरिक्षस्य पुत्राय तत्र हि पर्जन्यः प्रादुर्भवति मीह्ळुषे सेक्रे सतादृशः पर्जन्यो नोस्मभ्यं यवसं ओषध्यादिलक्षणमन्नं दातुमिच्छतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः