तस्मा॒ इदा॒स्ये॑ ह॒विर्जु॒होता॒ मधु॑मत्तमम् ।
इळां॑ नः सं॒यतं॑ करत् ॥
तस्मै॑ । इत् । आ॒स्ये॑ । ह॒विः । जु॒होत॑ । मधु॑मत्ऽतमम् ।
इळा॑म् । नः॒ । स॒म्ऽयत॑म् । क॒र॒त् ॥
तस्माइत् तस्माएव पर्जन्याय आस्ये देवानामास्यभूते अग्नौ मधुमत्तमं रसवत्तमं हविर्जुहोत जुहुत हे ऋत्विजः । सच पर्जन्यो नोस्मभ्यं इळामन्नं संयतं सम्यक् नियतं यथाभवति तथा करत् करोतु ददात्विति यावत् ॥ ३ ॥
संवत्सरमिति दशर्चं पञ्चदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभम् आद्यात्वनुष्टुप् मंडूकादेवता तथा चानुक्रान्तम्-संवत्सरं दश पर्जन्यस्तुति- संत्दृष्टान्मण्डूकांस्तुष्टावाद्यानुष्टुबिति वृष्टिकामेनैतत्सूक्तं जप्यम् ।