मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०३, ऋक् २

संहिता

दि॒व्या आपो॑ अ॒भि यदे॑न॒माय॒न्दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम् ।
गवा॒मह॒ न मा॒युर्व॒त्सिनी॑नां म॒ण्डूका॑नां व॒ग्नुरत्रा॒ समे॑ति ॥

पदपाठः

दि॒व्याः । आपः॑ । अ॒भि । यत् । ए॒न॒म् । आय॑न् । दृति॑म् । न । शुष्क॑म् । स॒र॒सी इति॑ । शया॑नम् ।
गवा॑म् । अह॑ । न । मा॒युः । व॒त्सिनी॑नाम् । म॒ण्डूका॑नाम् । व॒ग्नुः । अत्र॑ । सम् । ए॒ति॒ ॥

सायणभाष्यम्

दिवा दिविभवाआपः दृतिं न दृतिमिव शुष्कं नीरसं सरसी महत्सरः सरसी गौरादिलक्षर्णोङीष् सरस्यां सुपांसुलुगिति सप्तम्यालुक् । ईदूतौचसप्तम्यर्थइति प्रगृह्यसंज्ञा । महति सरसि निर्जले घर्मकाले शयानं निवसन्तं एनं मण्डूकगणं यद्यदा आयन् अभिगच्छन्ति तदा अत्रास्मिन् वर्षणे पर्जन्ये वा सति वत्सिनीनां वत्सयुक्तानां गवां न मायुः गवां शब्दइव मण्डूकानां वग्नुः शब्दः समेति सङ्गच्छते तथा वत्सैः सङ्गतासु गोषु महान्घोषो जायते तद्वद्वृष्टे पर्जन्ये महान्कलकलशब्दो जायते इत्यर्थः । अहेति पूरकः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः