मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०३, ऋक् ३

संहिता

यदी॑मेनाँ उश॒तो अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तः प्रा॒वृष्याग॑तायाम् ।
अ॒ख्ख॒ली॒कृत्या॑ पि॒तरं॒ न पु॒त्रो अ॒न्यो अ॒न्यमुप॒ वद॑न्तमेति ॥

पदपाठः

यत् । ई॒म् । ए॒ना॒न् । उ॒श॒तः । अ॒भि । अव॑र्षीत् । तृ॒ष्याऽव॑तः । प्रा॒वृषि॑ । आऽग॑तायाम् ।
अ॒ख्ख॒ली॒कृत्य॑ । पि॒तर॑म् । न । पु॒त्रः । अ॒न्यः । अ॒न्यम् । उप॑ । वद॑न्तम् । ए॒ति॒ ॥

सायणभाष्यम्

उशतः कामयमानान् तृष्यावतः तृष्णावत एनान्मण्डूकान्प्रावृषि वर्षर्तौ आगतायां आगते सति यद्यदा अभ्यवर्षित् पर्जन्योजलैरभिषिञ्चति ईमिति पूरणः तदानीं अक्खलीकृत्य अक्खलइति शब्दानुकरणम् अक्खलशब्दं कृत्वा पुत्रः पितरं न पितरमिव अन्यो मंडूकः वदन्तं शब्दयन्तमन्यं मण्डूकं उपैति प्राप्नोति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः