मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०३, ऋक् ६

संहिता

गोमा॑यु॒रेको॑ अ॒जमा॑यु॒रेक॒ः पृश्नि॒रेको॒ हरि॑त॒ एक॑ एषाम् ।
स॒मा॒नं नाम॒ बिभ्र॑तो॒ विरू॑पाः पुरु॒त्रा वाचं॑ पिपिशु॒र्वद॑न्तः ॥

पदपाठः

गोऽमा॑युः । एकः॑ । अ॒जऽमा॑युः । एकः॑ । पृश्निः॑ । एकः॑ । हरि॑तः । एकः॑ । ए॒षा॒म् ।
स॒मा॒नम् । नाम॑ । बिभ्र॑तः । विऽरू॑पाः । पु॒रु॒ऽत्रा । वाच॑म् । पि॒पि॒शुः॒ । वद॑न्तः ॥

सायणभाष्यम्

एषां मण्डूकानां मध्ये एकोमण्डूकः गोमायुः गोरिव मायुः शब्दोयस्य तादृशोभवति एकः अन्योमण्डूकः अजमायुः अजस्य मायुरिव मायुर्यस्य तादृशोभवति एकः पृश्निः पृश्निवर्णः एकोपरः हरितो हरितवर्णः एवं विरूपानानारूपाअपि समानमेकं मण्डूकाइति नाम बि- भ्रतोधारयन्तः पुरुत्रा बहुषु देशेषु वाचं वदन्तः शब्दं कुर्वन्तः पिपिशुः अवयवी भवन्ति प्रादुर्भवन्ति पिशअवयवे पुरुशब्दाद्देवमनुष्येत्या- दिनात्राप्रत्ययः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः