ब्रा॒ह्म॒णासः॑ सो॒मिनो॒ वाच॑मक्रत॒ ब्रह्म॑ कृ॒ण्वन्त॑ः परिवत्स॒रीण॑म् ।
अ॒ध्व॒र्यवो॑ घ॒र्मिणः॑ सिष्विदा॒ना आ॒विर्भ॑वन्ति॒ गुह्या॒ न के चि॑त् ॥
ब्रा॒ह्म॒णासः॑ । सो॒मिनः॑ । वाच॑म् । अ॒क्र॒त॒ । ब्रह्म॑ । कृ॒ण्वन्तः॑ । प॒रि॒व॒त्स॒रीण॑म् ।
अ॒ध्व॒र्यवः॑ । घ॒र्मिणः॑ । सि॒स्वि॒दा॒नाः । आ॒विः । भ॒व॒न्ति॒ । गुह्याः॑ । न । के । चि॒त् ॥
सोमिनः सोमयुक्ताः परिवत्सरीणं सांवत्सरिकं गावामयनिकं ब्रह्मस्तुतशस्त्रात्मकं कृण्वन्तः कुर्वन्तो ब्राह्मणासः लुप्तोपममेतत् ब्राह्मणाइव वाचं शब्दं अक्रत अकृषत इमे मण्डूकाः अपिच घर्मिणो घर्मेण प्रव् अर्ग्येण चरन्तः अध्वर्यवः अध्वरस्य नेतारः ऋत्विजइव सिष्विदानाः स्विद्यद्गात्राः गुत्द्याः घर्मकाले बिले निगूढाः केचित् केचन मण्डूकाः न सम्प्रति वृष्टौ सत्यां आविर्भवन्ति जायन्ते ॥ ८ ॥