मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् १

संहिता

इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृधः॑ ।
परा॑ शृणीतम॒चितो॒ न्यो॑षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिणः॑ ॥

पदपाठः

इन्द्रा॑सोमा । तप॑तम् । रक्षः॑ । उ॒ब्जत॑म् । नि । अ॒र्प॒य॒त॒म् । वृ॒ष॒णा॒ । त॒मः॒ऽवृधः॑ ।
परा॑ । शृ॒णी॒त॒म् । अ॒चितः॑ । नि । ओ॒ष॒त॒म् । ह॒तम् । नु॒देथा॑म् । नि । शि॒शी॒त॒म् । अ॒त्रिणः॑ ॥

सायणभाष्यम्

हे इन्द्रासोमौ इन्द्रश्च सोमश्च इन्द्रासोमौ देवताद्वंद्वेचेति पूर्वपदस्यानङ् आमन्त्रिताद्युदात्तत्वम् रक्षोरक्षांसि जातावेकवचनम् युवां तपतं सन्तापयतम् आमन्त्रितं पूर्वमविद्यमानवदिति अविद्यमानवत्त्वात् तपतमिति तिङन्तस्य निघाताभावः तथा उज्जतं हिंस्तं उज्जतिर्हिंसाकर्मा तिङ्परत्वान्निघाताभावः हे वृषणा वृषणौ कामानां वर्षितारौ न्यर्पयतं रक्षांसि नीचैष्ट्वं प्रापयतम् । तमोवृधः तमसा आवरकेण अन्धकारेण मायारूपेण वर्धमानान् तमसि रात्रौ वर्धमानान्वा अचितः ज्ञानरहितान् मूढान् राक्षसान् पराशृणीतम् पराङ्मुखा यथाभवंति तथा हिंस्तम् तथान्योषतं नितरां दहतम् उषदाहे हतं तान्मारयतम् नुदेथाम् अस्मत्तः हतांस्तान्प्रेरयेथां अत्रिणः अदनशीलांस्तान् राक्षसान् निशिशीतं नितरां तनुकुरुतम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः