मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् २

संहिता

इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्य१॒॑घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒वाँ इ॑व ।
ब्र॒ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मी॒दिने॑ ॥

पदपाठः

इन्द्रा॑सोमा । सम् । अ॒घऽशं॑सम् । अ॒भि । अ॒घम् । तपुः॑ । य॒य॒स्तु॒ । च॒रुः । अ॒ग्नि॒वान्ऽइ॑व ।
ब्र॒ह्म॒ऽद्विषे॑ । क्र॒व्य॒ऽअदे॑ । घो॒रऽच॑क्षसे । द्वेषः॑ । ध॒त्त॒म् । अ॒न॒वा॒यम् । कि॒मी॒दिने॑ ॥

सायणभाष्यम्

हे इन्द्रासोमौ अघशंसं अघस्यानर्थस्य शंसितारं अघमागत्य हन्तारं राक्षसं सं सहैव अभीतिश्रुतेर्योग्यक्रियाध्याहारः अभिभवतम् । सचतपुः युवयोस्तेजसातप्यमानोराक्षसः अग्निवाँइव अग्नियुक्तः अग्नौप्रक्षिप्तः चरुरिव ययस्तु यसुप्रयत्ने केवलोप्ययमाङ्पूर्वार्थोद्रष्ट- व्यः आयस्यतु आयासं प्राप्नोतु उपक्षीयतामित्यर्थः अपिच ब्रह्मद्विषे ब्राह्मणेभ्योस्मभ्यं द्वेष्ट्रे क्रव्यादे क्रव्यं मांसं भक्षयित्रे घोरचक्षसे घोरदर्शनाय परुषभाषिणे वा किमीदिने किमिदानीमिति चरते पिशुनाय द्वेषः द्वेष्यभावं अनवायं अव्यवायं अनवयवं नैरन्तर्येण यथाभवति तथा धत्तं दत्तम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः