मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् ३

संहिता

इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम् ।
यथा॒ नात॒ः पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥

पदपाठः

इन्द्रा॑सोमा । दुः॒ऽकृतः॑ । व॒व्रे । अ॒न्तः । अ॒ना॒र॒म्भ॒णे । तम॑सि । प्र । वि॒ध्य॒त॒म् ।
यथा॑ । न । अतः॑ । पुनः॑ । एकः॑ । च॒न । उ॒त्ऽअय॑त् । तत् । वा॒म् । अ॒स्तु॒ । सह॑से । म॒न्यु॒ऽमत् । शवः॑ ॥

सायणभाष्यम्

हे इन्द्रासोमौ दुष्कृतः दुष्कर्मकारिणो राक्षसान् वव्रे वारके अन्तर्मध्ये अनारंभणे आलंबनरहिते तमस्यन्धकारे प्रविध्यतं प्रवेश्य ताडयतम् यथा येनप्रकारेण एषां मध्ये एकश्चन एकोपि राक्षसः अतः अस्मात्तमसः पुनर्नोदयत् उद्गच्छेत् तथा विध्यतमित्यर्थः । एतेर्लेट्यडागमः इतश्चलोपइतीकारलोपः गुणायादेशौ । तत्प्रसिद्धम् मन्युमत् क्रोधयुक्तं वां युवयोः शवोबलं सहसे रक्षसामभि- भवनाय अस्तु भवतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः